This page has been fully proofread once and needs a second look.

१०८
 
न्यस्य मिहिरं यान्ति सूर्यं प्राप्नुवन्ति नूनमित्युत्प्रेक्षा । ये

भगवच्चरणं प्रपन्नास्ते देहावसानकाले भगवञ्च्चरणप्रपदनमहिम्ना

अर्चि/रादिमार्गेण परमं पदं प्राप्तुमभिमुखाः सन्तः स्वकीय-

मभ्युदयसाधनं स्वानपेक्षितं पुण्यनिचयं सुहृदि निवेश्य उत्क्र-

मणानन्तरमेव सूर्यं प्राप्नुवन्तीति शास्त्रमर्यादा । 'तस्य पुला
त्रा
दायमुपयन्ति सुहृदः साधुकृत्याम्' इति यथा ब्रह्मविदः पुत्रा

दायमुपयन्ति तथा तत्सुहृदां तदीयपुण्यप्राप्तिश्रवणात् 'स

यावत्क्षिप्ये-न्मनस्तावदादित्यं गच्छति' इति त्वरितमेवादित्यप्रा-

प्तिश्रवणाच्च तदर्थोपजीविन्यत्रोत्प्रेक्षा । शुक्लप्रतिपादितस्य च
-
न्द्रस्यामावास्यायामत्यन्तादर्शनात् 'नवो नवो भवति जाय-

मान: ' इति श्रुतेश्च प्रतिमासं भेदोऽध्यवसितः । तेनातीता-

श्
चन्द्रा अनन्तकोटय इति लभ्यते । ते सर्वेऽपि चन्द्रा भगव-

त्पदमाश्रयन्ते देहावसानकाले च दर्शे सूर्यं प्राप्नुवन्ति सहज-

लावण्येन न दृश्यन्ते चेति संप्रतिपन्न मेवैतत् । एवं च सूर्
यं
प्राप्नुवन्तस्ते परमपदाभिमुखाः सन्तो लावण्यरूपं स्वकीयं

पुण्यनिचयं सुहृदि भगवन्मुखे विन्यस्य यान्ति किमित्युत्प्रेक्षा ।

तस्याश्च पदशब्दश्लेषेण लावण्यपुण्यनिचयमिति रूपकेण

सुहृत्त्व प्रतिमा सभिन्नत्वाध्यवसायरूपातिशयोक्त्या संकरः ।

'
सुहृदः साधुकृत्याम' इति बहुवचनश्रवणात्सुहृत्सु बहुषु

तावत्स्वपुण्य संक्रमणावश्यंभावेऽपि अत्र सुहृदीत्येकवचनेन
 
6