This page has not been fully proofread.

१०८
 
न्यस्य मिहिरं यान्ति सूर्य प्राप्नुवन्ति नूनमित्युत्प्रेक्षा । ये
भगवचरणं प्रपन्नास्ते देहावसानकाले भगवञ्चरणप्रपदनमहिम्ना
अर्चि/दिमार्गेण परमं पदं प्राप्तुमभिमुखाः सन्तः स्वकीय-
मभ्युदयसाधनं स्वानपेक्षितं पुण्यनिचयं सुहृदि निवेश्य उत्क्र-
मणानन्तरमेव सूर्य प्राप्नुवन्तीति शास्त्रमर्यादा । 'तस्य पुला
दायमुपयन्ति सुहृदः साधुकृत्याम्' इति यथा ब्रह्मविदः पुत्रा
दायमुपयन्ति तथा तत्सुहृदां तदीयपुण्यप्राप्तिश्रवणात् 'स
यावत्क्षिप्ये-मनस्तावदादित्यं गच्छति' इति त्वरितमेवादित्यप्रा-
प्तिश्रवणाच्च तदर्थोपजीविन्यत्रोत्प्रेक्षा । शुक्लप्रतिपादितस्य च
न्द्रस्यामावास्यायामत्यन्तादर्शनात् 'नवो नवो भवति जाय-
मान: ' इति श्रुतेश्च प्रतिमासं भेदोऽध्यवसितः । तेनातीता-
चन्द्रा अनन्तकोटय इति लभ्यते । ते सर्वेऽपि चन्द्रा भगव-
त्पदमाश्रयन्ते देहावसानकाले च दर्शे सूर्य प्राप्नुवन्ति सहज-
लावण्येन न दृश्यन्ते चेति संप्रतिपन्न मेवैतत् । एवं च सूर्य
प्राप्नुवन्तस्ते परमपदाभिमुखाः सन्तो लावण्यरूपं स्वकीयं
पुण्यनिचयं सुहृदि भगवन्मुखे विन्यस्य यान्ति किमित्युत्प्रेक्षा ।
तस्याश्च पदशब्दश्लेषेण लावण्यपुण्यनिचयमिति रूपकेण
सुहृत्त्व प्रतिमा सभिन्नत्वाध्यवसायरूपातिशयोक्त्या संकरः ।
सुहृदः साधुकृत्याम' इति बहुवचनश्रवणात्सुहृत्सु बहुषु
तावत्स्वपुण्य संक्रमणावश्यंभावेऽपि अत्र सुहृदीत्येकवचनेन
 
6