This page has been fully proofread once and needs a second look.

१०७
 
नाथ त्वदीयमकलङ्कमिमं मुखेन्दु-

मापीय तृष्प्यति सदा वसुधा यतस्ते ।

तेनैव किं नवसुधारगोचरोऽभू-

दिन्दु: कलङ्कमलिनीकृतमध्यभागः ॥

 
हे नाथ, त्वदीयमकलङ्कमिमं मुखेन्दुं वसुधा सदा नि-
त्यम

त्यम्
, आपीय तृप्यति यतः तेनैव हेतुना किं कलक्कमलिनी-

कृतमध्यभाग: इन्दुः प्रसिद्धश्चन्द्रः नवसुधारसगोचरः अभूत्

नवस्य सुधारसस्य आस्पदमभूत् । वसुधाया रसस्य आस्वा-

दनेच्छाया गोचर आस्पदं नाभूदित्यपि सभङ्गश्लेषेण प्रतीयते ।
तख

तत्र
च हेतु: कलङ्काकलङ्कविशेषणपदाभ्यामुक्तः । पदार्थहे-

तुककाव्यलिङ्गानुप्राणितः श्लेषमूलो हेतूत्प्रेक्षालंकारः ॥ ८७ ॥

 
आश्रित्य नूनममृतधुनःद्युतयः पदं ते
 

देहक्षये विधृतदिव्यपदाभिमुख्या: ।

लावण्य पुण्यनिचयं सुहृदि त्वदास्ये
 

विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥
 

 
प्रतिमासं भिन्ना अमृतश्रुद्युतयः चन्द्राः ते तव विष्णोः पद-

माकाशप्म्, पक्षे चरणमाश्रित्य देहक्षये कृष्णपक्षावसाने प्राप्ते

विधृतदिव्यपदाभिमुख्या: सन्तः लावण्यमेव पुण्यनिचयं

सुहृदि सादृश्यात्सुहृत्त्वेनाध्यवसिते त्वदास्ये तव मुखे वि-