This page has not been fully proofread.

१०७
 
नाथ त्वदीयमकलङ्कमिमं मुखेन्दु-
मापीय तृष्यति सदा वसुधा यतस्ते ।
तेनैव किं नवसुधारमगोचरोऽभू-
दिन्दु: कलङ्कमलिनीकृतमध्यभागः ॥
हे नाथ, त्वदीयमकलङ्कमिमं मुखेन्दुं वसुधा सदा नि-
त्यम, आपीय तृप्यति यतः तेनैव हेतुना किं कलक्कमलिनी-
कृतमध्यभाग: इन्दुः प्रसिद्धश्चन्द्रः नवसुधारसगोचरः अभूत्
नवस्य सुधारसस्य आस्पदमभूत् । वसुधाया रसस्य आस्वा-
दनेच्छाया गोचर आस्पदं नाभूदित्यपि सभङ्गश्लेषेण प्रतीयते ।
तख च हेतु: कलङ्काकलङ्कविशेषणपदाभ्यामुक्तः । पदार्थहे-
तुककाव्यलिङ्गानुप्राणितः श्लेषमूलो हेतूत्प्रेक्षालंकारः ॥ ८७ ॥
आश्रित्य नूनममृतधुनः पदं ते
 
देहक्षये विधृतदिव्यपदाभिमुख्या: ।
लावण्य पुण्यनिचयं सुहृदि त्वदास्ये
 
विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ॥
 
प्रतिमासं भिन्ना अमृतश्रुतयः चन्द्राः ते तव विष्णोः पद-
माकाशप्, पक्षे चरणमाश्रित्य देहक्षये कृष्णपक्षावसाने प्राप्ते
विधृतदिव्यपदाभिमुख्या: सन्तः लावण्यमेव पुण्यनिचयं
सुहृदि सादृश्यात्सुहृत्त्वेनाध्यवसिते त्वदास्ये तव मुखे वि-