This page has been fully proofread once and needs a second look.

१०६
 
रागमुद्दीपयन् । उभयत्र सममेतत् । तव वदनमेवामृतांशुः

उद्दयोतते । सभङ्गाभङ्गशब्दार्थश्लेषानुप्राणितो रूपकालंकारः ॥
 
पक्षव्यऋ

 
पक्षद्वयक्र
शिमपोषविभाव्यमान-

चान्द्रायणव्रतनिषेवण एव नित्यम् ।

कुर्वन्प्रदक्षिणमुपेन्द्र सुरालयं ते

लिप्सुर्मुखाब्जरुचिमेष तपस्यतीन्दुः ।
 

 
हे उपेन्द्र, ते तव मुखाब्जरुचिचिं लिप्सुः एष इन्दुः प्रसि

द्धश्च द्रः पक्षद्वये कृष्णशुक्लपक्षद्वये यौ क्रशिमपोषौ ताभ्यां

विभाव्यमानं चान्द्रायणव्रतनिषेवणं यस्य सः तथाभूत एव

सन् सुरालयम् इष्टदेवतालयं रत्नसानुं च नित्यं प्रदक्षिणं

कुर्वन् तपस्यति । अत्र लिप्सुरिति फलोत्प्रेक्षया चान्द्रायण-
व्रत

व्रत
निषेवणकल्पनारूपातिशयोक्त्या मेरावदृष्टार्थिपुरुषप्रदक्षि-

णीकर्तव्येष्टदेवतालयत्वाध्यवसानरूपातिशयोक्त्या चोत्थापितः

चन्द्रगतत पोरूपधर्मोत्प्रेक्षालंकारः । कृष्ण प्रतिपदि पञ्चदश
प्

ग्
रासाः द्वितीयामारभ्यैकैकग्रासहानिः ततः शुक्लप्रतिपदमार-

भ्यैकैकग्रास वृद्धिरित्येवं प्ग्रासनियमयुक्तो व्रतविशेषश्चान्द्राय -

णम् तदनुष्ठानेऽपि ग्रासहाह्रासवृद्धधध्यनुसारेण क्रशिमपोषौ
 

संभाव्येते ॥ ८६ ॥
 
4