This page has not been fully proofread.

१०६
 
रागमुद्दीपयन् । उभयत्र सममेतत् । तव वदनमेवामृतांशुः
उद्दयोतते । सभङ्गाभङ्गशब्दार्थश्लेषानुप्राणितो रूपकालंकारः ॥
 
पक्षव्यऋशिमपोषविभाव्यमान-
चान्द्रायणवतनिषेवण एव नित्यम् ।
कुर्वन्प्रदक्षिणमुपेन्द्र सुरालयं ते
लिप्सुर्मुखाब्जरुचिमेष तपस्यतीन्दुः ।
 
हे उपेन्द्र, ते तव मुखाब्जरुचि लिप्सुः एष इन्दुः प्रसि
द्धश्च द्रः पक्षद्वये कृष्णशुक्लपक्षद्वये यौ क्रशिमपोषौ ताभ्यां
विभाव्यमानं चान्द्रायणव्रतनिषेवणं यस्य सः तथाभूत एव
सन् सुरालयम् इष्टदेवतालयं रत्नसानुं च नित्यं प्रदक्षिणं
कुर्वन् तपस्यति । अत्र लिप्सुरिति फलोत्प्रेक्षया चान्द्रायण-
व्रत निषेवणकल्पनारूपातिशयोक्त्या मेरावदृष्टार्थिपुरुषप्रदक्षि-
•णीकर्तव्येष्टदेवतालयत्वाध्यवसानरूपातिशयोक्त्या चोत्थापितः
चन्द्रगतत पोरूपधर्मोत्प्रेक्षालंकारः । कृष्ण प्रतिपदि पञ्चदश
प्रासाः द्वितीयामारभ्यैकैकग्रासहानिः ततः शुक्लप्रतिपदमार-
भ्यैकैकग्रास वृद्धिरित्येवं प्रासनियमयुक्तो व्रतविशेषश्चान्द्राय -
णम् तदनुष्ठानेऽपि ग्रासहासवृद्धधनुसारेण क्रशिमपोषौ
 
संभाव्येते ॥ ८६ ॥
 
4