This page has been fully proofread once and needs a second look.

१०५
 
हे रमाधिप, ते वक्त्रेण सरोजमभिभूतमभूदिति यत्

तेन हेतुना जातं जनापवादं नाभिभूतमिति शब्दमवाप्य

शब्दच्छलादपनिनीषु सत् विश्रुतायाः प्रसिद्धायाः तव नाभे-

रभूत् । प्रसिद्धान्नाभितो भवनादेव नाभिभूतमिति शब्दः

प्रसिद्धो भवतीति भावः । अत्र सरोजस्य भगवन्नाभिसंभूते-

र्जनापवादापनयनं फलत्वेनोत्प्रेक्षितमिति फलोत्प्रेक्षा नूनमिति

व्यञ्जकशब्दप्रयोगाद्वाच्या नाभिभूतशब्दश्लेषापेक्षेति संकरः ॥

 
उन्मीलयन्कुमुद मुज्ज्वलयन्गिरीश-

मुन्मूलयन्विषमवाहभवाभितापम् ।

उद्दीपयन्वरवधूजनतानुराग-

मुद्द्योतते वरद ते वदनामृतांशुः ॥८५
 
>
 

 
हे वरद, कुमुदं कोर्भूमेः मुदम अहमपि भगवतः परि-

पूर्णस्य वरदरूपेण मयि नित्य संनिधानात्परमशुद्धा जातास्मी-

त्येवमानन्दं भूगतानां मनुष्याणामानन्दं वा, चन्द्रपक्षे कैर-

म्, उन्मीलयन्विकासयन्, गिरीशं गिरिवरं हस्तिशैल
म्
पक्षे शिवम् उज्ज्वलयन्भूषयन् , विषमवाह भवाभितापं विष-

ममतिकृच्छ्रं दुःखं वायति प्रापयतीति विषमवाहो यो भवः

संसारः तत्कृतमभितापम् , पक्षे विषमवाहः सूर्यः तद्भवं

तत्संभवमभितापमुन्मूलयन् नाशयन् वरवधूजनताया अनु-
,
 
"
 
"