This page has not been fully proofread.

१०५
 
हे रमाधिप, ते वक्त्रेण सरोजमभिभूतमभूदिति यत्
तेन हेतुना जातं जनापवादं नाभिभूतमिति शब्दमवाप्य
शब्दच्छलादपनिनीषु सत् विश्रुतायाः प्रसिद्धायाः तव नाभे-
रभूत् । प्रसिद्धान्नाभितो भवनादेव नाभिभूतमिति शब्दः
प्रसिद्धो भवतीति भावः । अत्र सरोजस्य भगवन्नाभिसंभूते-
र्जनापवादापनयनं फलत्वेनोत्प्रेक्षितमिति फलोत्प्रेक्षा नूनमिति
व्यञ्जकशब्दप्रयोगाद्वाच्या नाभिभूतशब्दश्लेषापेक्षेति संकरः ॥
उन्मीलयन्कुमुद मुज्ज्वलयन्गिरीश-
मुन्मूलयन्विषमवाहभवाभितापम् ।
उद्दीपयन्वरवधूजनतानुराग-
मुद्दयोतते वरद ते वदनामृतांशुः ॥८५ ।
 
>
 
हे वरद, कुमुदं कोर्भूमेः मुदम अहमपि भगवतः परि-
पूर्णस्य वरदरूपेण मयि नित्य संनिधानात्परमशुद्धा जातास्मी-
त्येवमानन्दं भूगतानां मनुष्याणामानन्दं वा चन्द्रपक्षे कैर-
बम्, उन्मीलयन्विकासयन्, गिरीशं गिरिवरं हस्तिशैलम
पक्षे शिवम उज्ज्वलयन्भूषयन् विषमवाह भवाभितापं विष-
ममतिकृच्छ्रं दुःखं वायति प्रापयतीति विषमवाहो यो भवः
संसारः तत्कृतमभितापम पक्षे विषमवाहः सूर्यः तद्भवं
तत्संभवमभितापमुन्मूलयन् नाशयन् वरवधूजनताया अनु-
,
 
"
 
"