This page has been fully proofread once and needs a second look.

१०४
 
स्यूतैः अनस्पैः स्थूलैः नीलोत्पलैर्वलयितः तव कण्ठः ध्वननैः

महामेघगर्जितनिभैः कण्ठध्वनिभिः तस्यान्तः संवर्तमेघानां

वसतिं निश्चित्य तन्निकटगै: तत्समीपं प्राप्तैः मेघडिम्भैः

मेघार्भकैः वलयित इवाभाति । स्वरूपोत्प्रेक्षालंकारः ॥८२ ॥

 
यद्ब्रह्मणश्च जानेजनिभूः प्रियमिन्दिरायाः

सस्पर्धमोषधिपतौ च सकर्णिकं च ।

एतैर्गुणैर्गुणनिधे कतमस्त्वदीयं
 

वक्त्रं मनोज्ञमवगच्छतु नारविन्दम् ॥

 
हे गुणनिधे, त्वदीयं वक्त्रं ब्रह्मणः ब्राह्मणजातेः, पद्म-

पक्षे चतुर्मुखस्य जनिभूः उत्पत्तिस्थानम्, इन्दिरायाः प्रियं

प्रीत्यास्पदम्, ओषधिपतौ चन्द्रे सस्पर्धं च । एकं सादृ-

श्यादन्यत्तदुदये स्वस्य निमीलनात् । सकर्णिकं कर्णिकया

कर्णाभरणेन, पक्षे मध्यावयवेन सहितं चेति यत् ॥ एतै-

गुणैर्मनोहंज्ञं तव वक्त्रम् अरविन्दं कतमो नावगच्छतु ?

सर्वस्याप्यरविन्दमित्यवगन्तुमर्हमित्यर्थः ॥ ८३ ॥

 
वक्त्रेण ते यदभिभूतमभूत्सरोजं
 

तन्नाभिभूतमिति शब्दमवाध्प्य नूनम् ।

शब्दच्छलादपनिनीषु जनापवाद
 

नाभेरभूत्तव रमाधिप विश्रुतयः ॥तायाः ॥८४॥