This page has not been fully proofread.

१०४
 
स्यूतैः अनस्पैः स्थूलैः नीलोत्पलैर्वलयितः तव कण्ठः ध्वननैः
महामेघगर्जितनिभैः कण्ठध्वनिभिः तस्यान्तः संवर्तमेघानां
वसतिं निश्चित्य तन्निकटगै: तत्समीपं प्राप्तैः मेघडिम्भैः
मेघार्भकैः वलयित इवाभाति । स्वरूपोत्प्रेक्षालंकारः ॥८२ ॥
यद्रह्मणश्च जानेभूः प्रियमिन्दिरायाः
सस्पर्धमोषधिपतौ च सकर्णिकं च ।
एतैर्गुणैर्गुणनिधे कतमस्त्वदीयं
 
वक्त्रं मनोज्ञमवगच्छतु नारविन्दम् ॥
हे गुणनिधे, त्वदीयं वक्त्रं ब्रह्मणः ब्राह्मणजातेः, पद्म-
पक्षे चतुर्मुखस्य जनिभूः उत्पत्तिस्थानम्, इन्दिरायाः प्रियं
प्रीत्यास्पदम्, ओषधिपतौ चन्द्रे सस्पर्ध च । एकं साह-
श्यादन्यत्तदुदये स्वस्य निमीलनात् । सकर्णिकं कर्णिकया
कर्णाभरणेन, पक्षे मध्यावयवेन सहितं चेति यत् ॥ एतै-
गुणैर्मनोहं तव वक्त्रम् अरविन्दं कतमो नावगच्छतु ?
सर्वस्याप्यरविन्दमित्यवगन्तुमर्हमित्यर्थः ॥ ८३ ॥
वक्त्रेण ते यदभिभूतमभूत्सरोजं
 
तन्नाभिभूतमिति शब्दमवाध्य नूनम् ।
शब्दच्छलादपनिनीषु जनापवाद
 
नाभेरभूतव रमाधिप विश्रुतयः ॥४॥