This page has been fully proofread once and needs a second look.

यते –- आगमोदितरसः आगमे वेदे
उत्पन्नादरः विपश्चि
मीमांसान्यायालोचनेन
 
उत्पभादर: ि
दृढं वैदुष्यं प्राप्तः श्रुतिसिद्धमर्थं
 

श्रुतिलिङ्गादीनां मध्ये प्रथमप्रमाणभूतया श्रुत्या निश्चितं प्रमेयं

लिङ्गेन श्रुतिमुखनिरीक्षकतया ततो विलम्बित प्रवृत्तिकेन द्वि-

तीयप्रमाणेन बोध्यं बोधनीयं न ह्युररीकुरुते नाङ्गीकरोति ।

'
अर्थिभ्यो वै वरं दत्ते प्रणतार्तिविनाशनः । आख्यां वरद-

राजेति ययौ नित्यं कृतार्थयन् ॥' इति वामनपुराणे भग-

वतो वरदनाम निरुक्तम् । अतोऽभिधानश्रुत्या प्रसिद्धं वरदा-

तृत्वं न वरमुद्रालिङ्गेन बोधनीयमिति सा न धृतेत्यर्थः ।

भगवानप्यागमोदितरस: । 'रसो वै सः । रसँ ह्येवायं

लब्ध्वानन्दी भवति' इत्यागमप्रतिपादितरसः, विपश्चि
त्
'
ब्रह्मणा विपश्चितेति' इति मन्त्रवर्णात् । अत्र सामान्येन

विशेषसमर्थनरूपोऽर्थान्तरन्यासः । स च श्लेषानुप्राणित इति

संकरः ॥ ८१ ॥
 
(
 
6
 

 
आभाति मौक्तिकगुणग्रथितैरनल्यैपै-

र्नीलोत्पलै र्वलयितस्तव नाथ कण्ठः ।

संवर्तमेघवसतिं ध्वननैस्तदन्त-

र्
निश्चित्य तन्निकटगैरिव मेघडिम्भैः ॥
 

 
हे नाथ, मौक्तिकगुणप्रथितैः मौक्तिकसराणामन्तरालेषु