This page has not been fully proofread.

यते – आगमोदितरसः आगमे वेदे
मीमांसान्यायालोचनेन
 
उत्पभादर: ि
दृढं वैदुष्यं प्राप्तः श्रुतिसिद्धमर्थं
 
श्रुतिलिङ्गादीनां मध्ये प्रथमप्रमाणभूतया श्रुत्या निश्चितं प्रमेयं
लिङ्गेन श्रुतिमुखनिरीक्षकतया ततो विलम्बित प्रवृत्तिकेन द्वि-
तीयप्रमाणेन बोध्यं बोधनीयं न ह्युररीकुरुते नाङ्गीकरोति ।
अर्थिभ्यो वै वरं दत्ते प्रणतार्तिविनाशनः । आख्यां वरद-
राजेति ययौ नित्यं कृतार्थयन् ॥' इति वामनपुराणे भग-
वतो वरदनाम निरुक्तम । अतोऽभिधानश्रुत्या प्रसिद्धं वरदा-
तृत्वं न वरमुद्रालिङ्गेन बोधनीयमिति सा न धृतेत्यर्थः ।
भगवानप्यागमोदितरस: । 'रसो वै सः । रसँ ह्येवायं
लब्ध्वानन्दी भवति' इत्यागमप्रतिपादितरसः, विपश्चित
ब्रह्मणा विपश्चितेति' इति मन्त्रवर्णात् । अब सामान्येन
विशेषसमर्थनरूपोऽर्थान्तरन्यासः । स च श्लेषानुप्राणित इति
संकरः ॥ ८१ ॥
 
(
 
6
 
आभाति मौक्तिकगुणग्रथितैरनल्यै-
र्नीलोत्पलै र्वलयितस्तव नाथ कण्ठः ।
संवर्तमेघवसतिं ध्वननैस्तदन्त-
निश्चित्य तन्निकटगैरिव मेघडिम्भैः ॥
 
हे नाथ, मौक्तिकगुणप्रथितैः मौक्तिकसराणामन्तरालेषु