This page has been fully proofread once and needs a second look.

१०२
 
रितानामङ्गुलीयकानां किरणसमूहः कमलाधिराज्ये अस्य

हस्तस्य सकलकमलाधिराजभावे निमित्ते यः पट्टाभिषेक:

तदर्थः सलिलानामोघः समूहः परम्परेव विराजति । 'ओघः

परम्परायां स्याज्जलस्रोतसि संचये' इति केशवः । पट्टा-

भिषेकार्थमपि जलमवदातं शुद्धं भवति, सरित्समुद्रादिभ्य-

स्तस्याहरणीयत्वात् । स्वरूपोत्प्रेक्षालंकारः । अत्र सकलकम-

लातिशायिनी शोभा व्यज्यते । कोमलशब्दात्सौन्दर्यलाक्ष-

णिकात्कोमलं करोतीत्यर्थे तत्करोतीति ण्यन्तात्पचाद्या
चि
'
णेरनिटि' इति णिलोपे च सत्यत्र कोमलशब्द: सौन्द-

र्यावहवाची ॥ ८० ॥
 

 
अभयमुद्रावत्स्वामिना वरमुद्रा किमिति न धार्यत इत्या-
6
 

काङ्क्षाष्यामिदमुच्यते –
 
-
 

 
नामैव ते वरद वाञ्छितदातृभावं

व्याख्यात्यतो न वहसे वरदानमुद्राम् ।

न ह्यागमोदितरसः श्रुतिसिद्धमर्
थं
लिङ्गेन बोध्यमुररीकुरुने विपश्चित् ॥ ८१५

 
हे वरद,
ते तव नामैव वाञ्छितदातृभावं सकलभक्तज-

नेष्टार्थदातृत्वं व्याख्याति विशेषेणाख्याति स्पष्टमाचष्टे । अतो

हेतोर्वरदानमुद्रां न हसे । उक्तमर्थमर्थान्तरन्यासेन समर्थ-