This page has not been fully proofread.

१०२
 
रितानामङ्गुलीयकानां किरणसमूहः कमलाधिराज्ये अस्य
हस्तस्य सकलकमलाधिराजभावे निमित्ते यः पट्टाभिषेक:
तदर्थः सलिलानामोघः समूहः परम्परेव विराजति । 'ओघः
परम्परायां स्याज्जलस्रोतसि संचये' इति केशवः । पट्टा-
भिषेकार्थमपि जलमवदातं शुद्धं भवति, सरित्समुद्रादिभ्य-
स्तस्याहरणीयत्वात् । स्वरूपोत्प्रेक्षालंकारः । अत्र सकलकम-
लातिशायिनी शोभा व्यज्यते । कोमलशब्दात्सौन्दर्यलाक्ष-
णिकात्कोमलं करोतीत्यर्थे तत्करोतीति ण्यन्तात्पचाद्याच
णेरनिटि' इति णिलोपे च सत्यत कोमलशब्द: सौन्द-
र्यावहवाची ॥ ८० ॥
 
अभयमुद्रावत्स्वामिना वरमुद्रा किमिति न धार्यत इत्या-
6
 
काङ्क्षायामिदमुच्यते –
 
-
 
नामैव ते वरद वाञ्छितदातृभावं
व्याख्यात्यतो न वहसे वरदानमुद्राम् ।
न ह्यागमोदितरसः श्रुतिसिद्धमर्थ
लिङ्गेन बोध्यमुररीकुरुने विपश्चित् ॥ ८१५
हे वरद,
ते तव नामैव वाञ्छितदातृभावं सकलभक्तज-
नेष्टार्थदातृत्वं व्याख्याति विशेषेणाख्याति स्पष्टमाचष्टे । अतो
हेतोर्वरदानमुद्रां न बहसे । उक्तमर्थमर्थान्तरन्यासेन समर्थ-