This page has been fully proofread once and needs a second look.

हेतुगर्भविशेषणं वैरिञ्चवाक्यविकृतेति । इत्थं ब्रह्माण्डपुराणे
कथा -- लक्ष्मीसरस्वतभक्तौ कौचिद्द्विजौ स्वस्वदेवतोत्कर्षे
विवदमानौ ब्रह्माणमुपससृपतुः । ब्रह्मा च लक्ष्मीरुत्कृष्टेत्यु -
वाच । तेन सरस्वत्यतिमात्रं रुष्टा बभूवेत्येवं पौराणिकी प्रसिद्धिः
सेति पदेन निबद्धा । अत्र पदार्थहेतुककाव्यलिङ्गानुप्राणितः
स्वरूपोत्प्रेक्षालंकार इति तेन तस्याः संकरः । करपल्लवाद्युप-
माभिस्तु संसृष्टिः । करपल्लवाग्रशब्दस्य कृत्स्नस्यापि करपर-
तया प्रयोगे तु न तत्रोपमा । 'बाहुर्बाहा भुजः पाणिर्भरणं
करपल्लवः' इति यादवः । ' अथ ना करपल्लव: । बाहौ
किसलयप्रख्यकरेऽप्येष नृषण्डयोः' इति केशवः ॥ ७९ ॥
 
हस्ते विराजति तवाभयमुद्रितेऽस्मि-
न्नव्याजकोमलरुचिपकराभिरामे
वज्रोर्मिकांशुनिकरः कमलाधिराज्य
पट्टाभिषेकसलिलौघ इवावदातः ॥ ८० ॥
 
हे जनार्दन, अभयमुद्रिते अभयाभिनयेन संजातमुद्रे
अव्याजकोमलेन अलंकारादिहेत्वन्तरमनपेक्ष्य हस्तसौन्दर्या-
वहेन रुचिप्रकरेण प्रभासमूहेन अभिरामे तव हस्ते अवदात:
शुभ्रवर्ण : पीतवर्णो वा । 'अवदातः सिते पीते प्रधाने शुद्ध
एव वा' इति केशवः । वज्रोर्मिकांशुनिकरः प्रत्युप्तवज्रस-