This page has been fully proofread once and needs a second look.

१००
 
हे देव अच्युत, तव सव्यपाणौ विधृतः अन्तर्बहिश्च शु-

चि: धवलः, शिष्यपक्षे मानसकायिकशुद्धियुक्तः एष पाञ्च-

जन्यः पाञ्चजन्यनामा शङ्कः गभीरा ध्वानक्रियैव उपनिषद्रह-

स्यविद्या तदध्ययनार्थं गुरो: पीवरस्य, पक्षे आचार्यस्य गल-

स्य अन्ते समीपे वसन् शिष्य इव आभाति प्रकाशते । अत्र

शुचिगुरुशब्दश्लेषेण अध्ययनार्थमिति फलोत्प्रेक्षया चोत्थापितः

स्वरूपोलेत्प्रेक्षालंकारः । 'अथ स्याच्छुचिरीशाने सूर्ये चन्द्रेऽग्नि-

शुद्धयोः' इति केशवः ॥ ७८ ॥
 

 
कौमोदकी स्फुगतरति ते करपल्लवाग्रे

वैरिश्चञ्चिवाक्यविकृतेव रस्वती सा ।

त्रिस्त्रोतमस्तव पदाब्जभुवो विशेष-

माकाङ्क्ष्य पाणिकमलात्तव निःसरन्ती ॥

 
ते तव करपल्लवामेग्रे करपल्लवस्याग्रे कौमोदकी नाम गढ़ा

तब पदाब्जभुवः त्रिस्रोतस ःसः गङ्गायाः विशेषं तदपेक्षया स्व-

स्योत्कर्षमाकाङ्क्षश्ष्य तव पाणिकमलात् निःसरन्ती नदीरूपेप्प

प्रवहन्ती सरस्वतीव भाति । कौमोदकी प्रपञ्चसारे पीतवर्णा

वर्णिता—-' चक्रं शङ्खगदाम्बुजकौस्तुभमुसलाः सखड्गवनमा -
 
-
लाः
। रक्ताच्छपीतकनकश्यामलकृष्णःशुशुक्लभासः स्युः ॥'

इति । अतः सरस्वतीनदीत्वोत्प्रेक्षा । सरस्वत्या गङ्गापेक्षया
 
-