This page has been fully proofread once and needs a second look.

९९
 
महापुरुषरूपधरम् 'वेदाहमेतं पुरुषं महान्तम्' इत्युक्तस्य

महापुरुषस्य यद्रूपं वर्णितम् 'अहोरालेत्रे पार्श्वे' 'नक्षत्राणि रू-

पम्' इति तस्य धारकं तद्रूपमास्थाय संनिदधानं मन्ये । अ-

त्रोपमारूपकोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ७६ ॥
 

 
संवर्तजृम्भित विकर्तन दुर्निरीक्षं

पश्यामि दक्षिणकरे त चक्रराजम् ।

दैत्यौघसिन्धुपतिमन्थमहाचलस्य

बाहो: प्रतापघनमिद्धमिवोद्गतं ते ॥
 
तब

 
तव
दक्षिणकरे संवर्ते प्रलये जृम्भितं विकर्तनं सूर्यमिव

दुर्निरक्षं चक्रराजं चक्राणां राजानं सुदर्शनं दैत्यौघ एव सि-

न्धुपतिर्नदीपतिः तस्य मथने मन्थमहाचलस्य मन्थानरूपम-

हाशैलस्य त्वद्वाबाहोः इद्धं दीप्तं प्रतापघनं प्रतापस्य कठिनीभा-

वमिव पश्यामि । 'घनाः कठिनसंघातमेघकाठिन्यमुद्गराः '

इति केशवः । अत्रोपमारूपकोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥
 

 
आभाति देव विधृतस्तव सव्यपाणा-

वन्तर्बहिश्च शुचिरच्युत पाञ्चजन्यः ।

अन्तेवसन्निव गलस्य गुरोगंर्गभीर.
 
-
ध्वान क्रियोपनिषद्ध्ययनार्थमेषः ॥ ७८ ॥