This page has not been fully proofread.

९९
 
महापुरुषरूपधरम् 'वेदाहमेतं पुरुषं महान्तम्' इत्युक्तस्य
महापुरुषस्य यद्रूपं वर्णितम् 'अहोराले पार्श्वे' 'नक्षत्राणि रू-
पम्' इति तस्य धारकं तद्रूपमास्थाय संनिदधानं मन्ये । अ-
त्रोपमारूपकोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ७६ ॥
 
संवर्तजृम्भित विकर्तन दुर्निरीक्षं
पश्यामि दक्षिणकरे तब चक्रराजम् ।
दैत्यौघसिन्धुपतिमन्थमहाचलस्य
बाहो: प्रतापघनमिद्धमिवोद्गतं ते ॥
 
तब दक्षिणकरे संवर्ते प्रलये जृम्भितं विकर्तनं सूर्यमिव
दुर्निरक्षं चक्रराजं चक्राणां राजानं सुदर्शनं दैत्यौघ एव सि-
न्धुपतिर्नदीपतिः तस्य मथने मन्थमहाचलस्य मन्थानरूपम-
हाशैलस्य त्वद्वाहोः इद्धं दीप्तं प्रतापघनं प्रतापस्य कठिनीभा-
वमिव पश्यामि । 'घनाः कठिनसंघातमेघकाठिन्यमुद्गराः '
इति केशवः । अत्रोपमारूपकोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥
 
आभाति देव विधृतस्तव सव्यपाणा-
वन्तर्बहिश्च शुचिरच्युत पाञ्चजन्यः ।
अन्तेवसन्निव गलस्य गुरोगंभीर.
 
ध्वान क्रियोपनिषद्ध्ययनार्थमेषः ॥ ७८ ॥