This page has been fully proofread once and needs a second look.

९८
 
ऐन्द्रोपलप्रभमधो भुजदण्डनाल-

मेकल चक्रमपरतत्र चक्रमपरत्र च शङ्खहंसम् ।

दृष्ट्वा कथं न कलयेमहि कान्तिसिन्धो-

रुत्फुल्लपद्मयुग मूर्ध्वकरद्वयं ते ॥ ७५ ॥
 

 
अध: अधस्तात् ऐन्द्रोपलप्रभमिन्द्रनीलमणिप्रभं भुजदण्ड-

मेव नालम्, एकत्र करे चक्रं सुदर्शनम, पक्षे चक्रवाकम्,

अपरत्र करे शङ्खमेव हंसं च दृष्टाट्वा कथं ते तब ऊर्ध्वकरद्वयं

कान्तिसिन्धोः संबन्धि उद्गतं उत्फुल्लपद्मयुगं न कलयेमहि ?

तथा कलयितुं युक्तमेव । अत्र रूपकै: चक्रशब्द श्लेषेण इन्द्रो-

पलप्रभमित्युपमया चोत्थापितः स्वरूपोत्प्रेक्षालंकारः, नाला-

दिलिङ्गादनुमानालंकारो वा ॥ ७५ ॥

 
चन्द्रार्कचारुतरशङ्स्वरथाङ्गशोभा-

संभाव्यरात्रिदिवसात्मकपार्श्वयुग्मम् ।

नक्षत्रदृश्यनवमौक्तिकहारिरूपं
 

मन्ये महापुरुषरूपधरं भवन्तम् ॥ ७६ ॥

 
चन्द्रार्कयोरिव चारुतरयोः शङ्करथाङ्गयोः शोभया संभा-

व्यरात्रिदिवसात्मकं संभावनायोग्यर।विरात्रिदिवसस्वभावशालि पा-

र्श्
वयुग्मं यस्य स तथोक्तः तम , नक्षत्रैरिव दृश्यैः नवमौक्ति-
कै:

कैः
हारि मनोहरं रूपं यस्य स तथोक्तः तमेवंभूतं भवन्तं