This page has not been fully proofread.

९८
 
ऐन्द्रोपलप्रभमधो भुजदण्डनाल-
मेकल चक्रमपरत च शङ्खहंसम् ।
दृष्ट्वा कथं न कलयेमहि कान्तिसिन्धो-
रुत्फुल्लपद्मयुग मूर्ध्वकरद्वयं ते ॥ ७५ ॥
 
अध: अधस्तात् ऐन्द्रोपलप्रभमिन्द्रनीलमणिप्रभं भुजदण्ड-
मेव नालम्, एकत्र करे चक्रं सुदर्शनम, पक्षे चक्रवाकम्,
अपरत्र करे शङ्खमेव हंसं च दृष्टा कथं ते तब ऊर्ध्वकरद्वयं
कान्तिसिन्धोः संबन्धि उद्गतं उत्फुल्लपद्मयुगं न कलयेमहि ?
तथा कलयितुं युक्तमेव । अत्र रूपकै: चक्रशब्द श्लेषेण इन्द्रो-
पलप्रभमित्युपमया चोत्थापितः स्वरूपोत्प्रेक्षालंकारः, नाला-
दिलिङ्गादनुमानालंकारो वा ॥ ७५ ॥
चन्द्रार्कचारुतरशखरथाङ्गशोभा-
संभाव्यरात्रिदिवसात्मकपार्श्वयुग्मम् ।
नक्षत्रदृश्यनवमौक्तिकहारिरूपं
 
मन्ये महापुरुषरूपधरं भवन्तम् ॥ ७६ ॥
चन्द्रार्कयोरिव चारुतरयोः शङ्करथाङ्गयोः शोभया संभा-
व्यरात्रिदिवसात्मकं संभावनायोग्यर।विदिवसस्वभावशालि पा-
वयुग्मं यस्य स तथोक्तः तम, नक्षत्रैरिव दृश्यैः नवमौक्ति-
कै: हारि मनोहरं रूपं यस्य स तथोक्तः तमेवंभूतं भवन्तं