2023-03-31 01:11:33 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
एव
ख्याने पल्लवरागो
इह करकङ्कणस्थः स मणिर्वर्ण्यते । हे वरद, ए
जात्यैव पल्लवराग इति यत्, यच्च भवता कटके निवेश्योप-
लाल्यते तत्तेन हेतुना मदान्धभावमुपगम्य एत्य साक्षात्प्रत्यक्
पुरत एव सवितुः सूर्यस्यैव, पक्षे पितुरेव अवज्ञां करोति !
प्रभया सूर्
जन्मप्रभृत्येव पल्लवेषु विटेषु रज्यति राज्ञः कटके सैन्ये सम-
घिकृतश्च स मदेनान्ध्यं कृत्याकृत्यविवेकाभावं प्राप्य साक्षा-
त्पितुरप्यवज्ञां कुर्यादेव । अत्र पल्लवरागकटकसवितृशब्दश्ले-
घे
षेणोत्थापितो हे
शब्दः । सवितुरेवेत्येवकारेणान्येषामवज्ञां करोतीति किमु व
क्तव्यमित्यर्थापत्त्यलंकारश्च गम्यते । 'जाति: समूहे मालत्यां
सामान्ये जन्मगोत्रयोः' 'पल्लवोऽस्त्री किसलये पत्रमात्रप्रको-
ष्ठयोः । विस्तारे विटपे चाथ रभसे संबलेऽपि च पुंलिङ्गस्तु
भवेत्षिङ्गे' 'कटकस्त्वस्त्रियां शैलनितम्बे वलयेऽपि च । सैन्ये
च राजधान्यां च' इति केशवः । पल्लवेषु रागोऽस्येति
सप्तमीगर्भो बहुव्रीहिः ॥ ७४ ॥
V. 7