2023-02-23 16:31:30 by ambuda-bot
This page has not been fully proofread.
९७
यन्ति । तत्र कुरुवि दस्य पल्लवराग इति नामान्तरम् । अत
एव : प्रचक्रमे पल्लवरागताम्रा' इति कालिदासश्लोकव्या-
ख्याने पल्लवरागो रंनविशेषे योगरूढ इति चक्रवर्तिनोक्तम् ।
इह करकङ्कणस्थः स मणिर्वर्ण्यते । हे वरद, एष: अयं मणिः
जायैव पल्लवराग इति यत्, यच्च भवता कटके निवेश्योप-
लाल्यते तत्तेन हेतुना मदान्धभावमुपगम्य एत्य साक्षात्प्रत्यक्ष
पुरत एव सवितुः सूर्यस्यैव, पक्षे पितुरेव अवज्ञां करोति !
प्रभया सूर्य च परिभवतीत्ययं सूर्यस्य तिरस्कारः । यः खलु
जन्मप्रभृत्येव पल्लवेषु विटेषु रज्यति राज्ञः कटके सैन्ये सम-
घिकृतश्च स मदेनान्ध्यं कृत्याकृत्यविवेकाभावं प्राप्य साक्षा-
पितुरप्यवज्ञां कुर्यादेव । अत्र पल्लवरागकटकसवितृशब्दश्ले-
घेणोत्थापितो हेतुत्प्रेक्षालंकारः । मन्य इति तद्वयञ्जकः
शब्दः । सवितुरेवेत्येवकारेणान्येषामवज्ञां करोतीति किमु व
क्तव्यमित्यर्थापत्त्यलंकारश्च गम्यते । 'जाति: समूहे मालत्यां
सामान्ये जन्मगोत्रयोः' 'पल्लवोऽस्त्री किसलये पत्रमात्रप्रको-
ष्ठयोः । विस्तारे विटपे चाथ रभसे संबलेऽपि च पुंलिङ्गस्तु
भवेत्षिङ्गे' 'कटकस्त्वस्त्रियां शैलनितम्बे वलयेऽपि च । सैन्ये
च राजधान्यां च' इति केशवः । पल्लवेषु रागोऽस्येति
सप्तमीगर्भो बहुव्रीहिः ॥ ७४ ॥
V. 7