This page has been fully proofread once and needs a second look.

९६
 
-
 
विभाति, तवैते समीपतरवर्तिनः भुजाः चत्वारो बाहवः

कराब्जदलकोमलिताप्रभागाः करा एवाब्जदलानि तैः कोम -

लिता अप्रभागा यासां तास्तथाभूताः तस्य हरिचन्दनस्य

शाखा लता इति शङ्के उत्प्रेक्षे अत्र स्वरूपोत्प्रेक्षाया हरि-

चन्दनादिशब्दश्लेषेण कराब्जद्लेति रूपकेण च संकरः ।

कराब्जेत्यत्र यद्युपमितसमासस्तदोपमया संसृष्टिः । यदि

मयूरव्यंसकादिसमासस्तदा दण्ड्युक्त प्रकारेण रूपकरूपकम् ।

'
मुखपङ्कजरङ्गेऽस्मिन्भ्रूलता नर्तकी तव । लीलानाट्यामृतं

दृष्ट्योर्यूनां साख निषिञ्चति ॥ ' इति हि तदीयं रूपकरूपको
-
दाहरणम् । उभयथा संदेहे तु संदेहसंकरः । ' हरिचन्दनमस्त्री

स्याद्देवानां पादपान्तरे चन्दने ताम्नसारे च पीतचन्दनसं-

ज्ञके ॥ ' इति केशवः ॥ ७२ ॥
 

 

 
जात्यैव यद्वरद पल्लवराग एष

यल्लाल्यते च भवता कटके निवेश्य ।

मन्ये मणिस्तदुपगम्य मदान्धभावं

साक्षादयं सवितुरेव करोत्यवज्ञाम् ॥७३॥

 
माणिक्यस्य चातुर्वर्ण्यरूपाश्चतस्त्रो जातयः पद्मरागकुरु-

विन्दसौगन्धिकर्नानीलगन्धिभेदात् । तानि क्रमाद्रक्मतिरक्त-

मीषत्पीतप्रभं पिञ्जरमीषन्नीलप्रभं धूम्रं च रत्नशास्त्रविदो वर्ण-