2023-03-31 13:53:45 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
www
वक्षसि दक्षिणभागगतो बिल्वरूपो लाञ्छनविशेष इति सार्व-
भौम: प्रवादः । हरिवंशे —- ' श्रीवत्सेनोरसि श्रीमान्रोमजा-
लेन राजते' इति रोमावर्त इत्युक्तम् । वामनपुराणे भूष-
णविशेष इति सूचितम् । तत्र हि श्रीदामनामानमसुरमुपक्रम्यो-
क्तम्-- ' निःश्रीकास्तु
श्रीवत्सं वासुदेवस्य हर्तुमैच्छन्महाबलः ॥ ' इति । कण्ठत-
श्रोक्तं तत्रै
कण्ठभूषणम् । वायव्यां रक्ष मां देव अश्वशीर्ष नमोऽस्तु
ते ॥ ' इति । अत्र स्वरूपोत्प्रेक्षालंकार
हितशुक्लकृष्णाम् ' इति सत्त्वादीनां शुक्लारुणकृष्णवर्णत्वश्रव-
णादेवमुत्प्रेक्षा ॥ ७
॥
वक्षःस्थलं वरद नन्दन
येषां विभाति हरिचन्दन एष मध्ये ।
एते चतुर्भुज भुजास्तव तस्
शङ्के कराब्जदलकोमलिताग्रभागाः ॥
हे वरद चतुर्भुज, नन्दनं सर्वेषां परमानन्दकरम्, पक्षे
नन्दनवनं ते त
चन्दनाङ्गरागः, पक्षे हरिचन्दनाख्यः कल्पवृक्षः येषां मध्ये