This page has been fully proofread once and needs a second look.

९४
 
1
 
नाभीसरोजस्य किरणैः मणिराजस्य कौस्तुभस्य भाभिः

आत्मनः स्वस्य प्रभाभिश्च संवलितं त्वदीयं वक्षः श्रीवत्सवि-

ग्रहजुषः श्रीवत्सरूपं प्राप्तायाः प्रकृतेः त्रिगुणायाः गुणैः

सत्त्वरजस्तमोभिः परीतमिव विभाति । केचिन्नाभिसरोजं

धवलं वर्णयन्ति । यथा -- ' नाभीपल्वलपुण्डरीकमुकुलः

कम्बोः सपत्नीकृतः' इति मुरारिनाटके । हरिवंशे त्वरुणं

वर्णितम्-- 'हुताशनज्वलितशिखोज्ज्वलत्प्रभं समुत्थितं शर-

मलार्कतेजसम् । विराजते कमलमुदारवर्चसं महात्मनस्तनु-

रिव चारुदर्शनम् ॥' इति कौस्तुभं धवलं केचिद्वर्णयन्ति ।

यथा नैषधचरिते -- ' हित्वा दैत्यरिपोरुरः स्वभवनं शून्यत्वदो-

स्फुटासीदन्मर्कट कीट कृत्रिमसितच्छत्रीभवत्कौस्तुभम्' इति ।

हरिवंशे तु – 'अस्यैव देवस्य हरे: स्तनान्तरे विराजते

कौस्तुभरत्नदीपः' इति दीपसाम्येनारुणो वर्णितः । प्रपञ्चसारे

तु श्यामल इति तद्ध्यानमुक्तम् । अनेन अनेकधा प्रसिद्ध-

त्वात्कौस्तुभनाभीकमलयोः वचन क्वचन क्वचन श्लोके कश्चन कञ्चन

वर्णो वर्ण्यते, 'न तत्तत्त्वं न तच्छास्त्रं न सा विद्या न सा

कला । यन्त्र काव्याङ्गतां याति काव्यं सर्वात्मकं यतः ॥ '

इति काव्यस्य सर्वमतसाधारण्यवचनात् । अतोऽत्र न पूर्वा -
क्

रविरोधः शङ्कनीयः । श्रीवत्सः प्रकृतिरूप इति विष्णुपुराणे

वर्शितम् -– ' श्रीवत्सरांस्थानमयमनन्ते च समाश्रितम् । प्र
 
6
 
-