This page has not been fully proofread.

९४
 
1
 
नाभीसरोजस्य किरणैः मणिराजस्य कौस्तुभस्य भाभिः
आत्मनः स्वस्य प्रभाभिश्च संवलितं त्वदीयं वक्षः श्रीवत्सवि-
ग्रहजुषः श्रीवत्सरूपं प्राप्तायाः प्रकृतेः त्रिगुणायाः गुणैः
सत्त्वरजस्तमोभिः परीतमिव विभाति । केचिन्नाभिसरोजं
धवलं वर्णयन्ति । यथा - ' नाभीपल्वलपुण्डरीकमुकुलः
कम्बोः सपत्नीकृतः' इति मुरारिनाटके । हरिवंशे त्वरुणं
वर्णितम्- 'हुताशनज्वलितशिखोज्ज्वलत्प्रभं समुत्थितं शर-
मलार्कतेजसम् । विराजते कमलमुदारवर्चसं महात्मनस्तनु-
रिव चारुदर्शनम् ॥' इति कौस्तुभं धवलं केचिद्वर्णयन्ति ।
यथा नैषधचरिते - ' हित्वा दैत्यरिपोरुरः स्वभवनं शून्यत्वदो-
बस्फुटासीदन्मर्कट कीट कृत्रिमसितच्छत्रीभवत्कौस्तुभम्' इति ।
हरिवंशे तु – 'अस्यैव देवस्य हरे: स्तनान्तरे विराजते
कौस्तुभरत्नदीपः' इति दीपसाम्येनारुणो वर्णितः । प्रपञ्चसारे
तु श्यामल इति तद्ध्यानमुक्तम् । अनेन अनेकधा प्रसिद्ध-
त्वात्कौस्तुभनाभीकमलयोः वचन वचन श्लोके कश्चन कञ्चन
वर्णो वर्ण्यते, 'न तत्तत्त्वं न तच्छा न सा विद्या न सा
कला । यन्त्र काव्याङ्गतां याति काव्यं सर्वात्मकं यतः ॥ '
इति काव्यस्य सर्वमतसाधारण्यवचनात् । अतोऽत्र न पूर्वा -
क्रविरोधः शङ्कनीयः । श्रीवत्सः प्रकृतिरूप इति विष्णुपुराणे
वर्शितम् – ' श्रीवत्सरांस्थानमयमनन्ते च समाश्रितम् । प्र
 
6