This page has been fully proofread once and needs a second look.

क्तम् ।
 
'परिणाहो विशालता' इति
 
'घनसारश्चन्द्रसंज्ञ:
 
6
 

सिताश्भ्रो हिमवालुका' इति चामरः । अन्तरिक्षपक्षे तारा-
मि

भिर्
नक्षत्रैरभिरामे परिणाहे लसन्ति सिता भ्राणि शुभ्रमेघा

यस्य तत्तथोक्तम् । तापिञ्छमेचकं तमालश्यामलम् ।
'का
लस्कन्धस्तमालः स्यात्तापिञ्छोऽपि ' इत्यमरः । तव उर एव

शरदन्तरिक्षं प्राप्यैव कौस्तुभ एवं पूर्णचन्द्रः पूर्णाणां कान्तिरेखां

कान्त्यतिशयं बिभर्ति निरन्तरालपकिङ्क्तिवाचिना रेखाशब्देना-

तिशयो लक्ष्यते । 'रेखा त्वकृत्रिमे मार्गे हस्तपादतलादिषु ।

निरन्तरालपङ्कौ च' इति केशवः । यथा शरदन्तरिक्षं

प्राप्त एव चन्द्रः पूर्णां कान्तिं बिभर्ति एवं भगवदुरःस्थलं

प्राप्त एव कौस्तुभ इति तात्पर्यम् । अत्र शरदन्तरिक्षमित्यत्र

रूपकसमासः; न तूपमितसमासः, तापिञ्छमेचकमित्यादि-

सामान्य प्रयोगात् । तदनुरोधादन्यत्रापि रूपकसमास इति

श्
लेषानुप्राणितो रूपकालंकारः ॥ ७० ॥
 

 
नाभीसरोजकिरणैर्मणिराजभाभि-

रात्मप्रभाभिरपि संवलितं विभाति ।

श्रीवत्सविग्रहजुषः प्रकृतेस्त्वदीयं
 

वक्षः परीतमिव सत्त्वरजस्तमोभिः ॥
 
C
 
6
 
का-