This page has not been fully proofread.

क्तम् ।
 
परिणाहो विशालता' इति
 
घनसारश्चन्द्रसंज्ञ:
 
6
 
सिताश्रो हिमवालुका' इति चामरः । अन्तरिक्षपक्षे तारा-
मिनक्षत्रैरभिरामे परिणाहे लसन्ति सिता भ्राणि शुभ्रमेघा
यस्य तत्तथोक्तम् । तापिञ्छमेचकं तमालश्यामलम् ।
लस्कन्धस्तमालः स्यात्तापिञ्छोऽपि ' इत्यमरः । तव उर एव
शरदन्तरिक्षं प्राप्यैव कौस्तुभ एवं पूर्णचन्द्रः पूर्णा कान्तिरेखां
कान्त्यतिशयं बिभर्ति निरन्तरालपकिवाचिना रेखाशब्देना-
तिशयो लक्ष्यते । 'रेखा त्वकृत्रिमे मार्गे हस्तपादतलादिषु ।
निरन्तरालपच' इति केशवः । यथा शरदन्तरिक्षं
प्राप्त एव चन्द्रः पूर्णां कान्तिं बिभर्ति एवं भगवदुरःस्थलं
प्राप्त एव कौस्तुभ इति तात्पर्यम् । अल शरदन्तरिक्षमित्यत्र
रूपकसमासः; न तूपमितसमासः, तापिञ्छमेचकमित्यादि-
सामान्य प्रयोगात् । तदनुरोधादन्यत्रापि रूपकसमास इति
लेषानुप्राणितो रूपकालंकारः ॥ ७० ॥
 
नाभीसरोजकिरणैर्मणिराजभाभि-
रात्मप्रभाभिरपि संवलितं विभाति ।
श्रीवत्सविग्रहजुषः प्रकृतेस्त्वदीयं
 
वक्षः परीतमिव सत्त्वरजस्तमोभिः ॥
 
C
 
6
 
का-