This page has not been fully proofread.

कान्तिविवृद्धावूर्म्युत्करत्वाध्यवसायरूपयातिशयोक्त्या चोत्था-

पितः स्वरूपोत्प्रेक्षालंकारः ॥ ६८ ॥
 

 
त्वां सर्वश्रुतमयमाश्रित सर्ववर्ण

यद्वैजयन्त्युपगताच्युत सर्वगन्धम् ।

तेनैव किं विभुवनैकमहावदान्य

सारूप्यमावति ते सकलाभिनन्यम् ॥
 

 
हे. त्रिभुवनैकमहावदान्य अच्युत, सर्वभूतमयं सर्वेषां

प्राणिनामन्तरात्मतया सर्वभूतात्मकम् आश्रिताः सर्वे वर्णा

विप्रादयो यं तथाभूतं सर्वगन्धम् ' सर्वकर्मा सर्वकामः सर्व-

गन्धः सर्वरसः' इति श्रुतेः सर्वविधदिव्यसौरभशालिनं त्वां

वैजयन्ती उपगता समाश्रितेति यत् तेनैव हेतुना सकलाभि-

नन्द्यं ते तव सारूप्यम आवहति बिभर्ति किम् ? वैजय-

न्त्यपि 'पञ्चरूपा तु या माला वैजयन्ती गदाभृतः । सा

भूतहेतुसंघातभूता माला च वै द्विज ॥' इति वचनात्प्पू-

थिव्यादिसर्वभूतमयी आश्रितसर्ववर्णा च । पृथिव्यादीनामा-

गमेषु पीतशुक्लरक्तकृष्णधूम्रवर्णध्यानविधानाडूम्रवर्णो यद्यपि

रक्तमिश्रकृष्णवर्णरूपः तथापि स एव हरितवर्णस्थाने कथंचन

द्रष्टव्यः । यद्वा वैजयन्त्यां भूतात्मकानि पुष्पाणि रत्नपुष्पाणि

रत्नेषु च वज्रमुक्ताफलपद्मरागेन्द्रनीलगारुत्मतानि प्रशस्ता-