This page has been fully proofread once and needs a second look.

कचाय मृतसंजीवनीनीं विद्यामुपदिदेश । स्वोदरं विदार्य निर्ग-
तेन कचेन मृतः शुक्र: पुनरुज्जीवित इति महाभारते कथा ।
एवं मृतस्य भस्मान्वीक्ष्यैव मृतमुज्जीवयतः शुक्रात्तद्भस्मानपे-
क्ष्यैव यत्र कचिद्भस्मीकृतमन्यत्र संजीवयन्ति हारमौक्तिका-
नीत्युचितं शुक्रजयनमिति भावः । अत्र स्त्रीणामनुरागस्य
साक्षान्मदनत्वेनाध्यवसाया दनुरागोद्दीपनस्य मदनपुनःसंजीव-
नत्वेनाध्यवसायाच्चातिशयोक्तिः । तदुत्थापितश्च मौक्तिकानां
शुक्रादाधिक्यरूपो व्यतिरेकालंकारः ॥ ६७ ॥
 
उत्प्रेक्षयत्यधिभुजान्तरमुल्लसन्ती
पार्श्वद्वये परमपूरुष हारमाला ।
तत्रत्य कान्ति कान्तिसरितस्तरलैः प्रणुन्ना-
मूर्म्युत्करैरुभयतः सितफेनपङ्क्तिम् ॥
 
हे परमपूरुष, तव अधिभुजान्तरं भुजान्तरस्य वक्षसः ।
षष्ठीविभक्त्यर्थे ऽव्ययीभावः । पार्श्वद्वये उल्लसन्ती भ्राजमाना
हारमाला मुक्तागुणानां पकिःङ्क्तिः तत्रत्यकान्तिसरितः वक्षसि
प्रवहन्त्याः कान्तेरेव सरितः तरलैश्चञ्चलैः ऊर्म्युत्करैः तरङ्ग-
निकरै: उभयतः तीरद्वये प्रणुन्नां क्षिप्तां सितानां
फेनानां पङ्क्तिम् उत्प्रेक्षयति । अत्र कान्तिसरित इति रूपकेण