This page has been fully proofread once and needs a second look.

८९
 
रूपे चरिते वृत्तं छन्दोविधासु च : त्रिष्वतीते दृढे वीधे वर्तु

लेsपि च दृश्यते ॥' इति यादवः ॥ ६६ ॥
 

 
नष्टेऽपि भस्मनि वने गिरिशेन दग्धं

स्त्रीणां हृदीश मदनं प्रतिबोधयन्तः ।

भस्मोच्चये कृतकचप्रतिबोधनं तं
 

शुक्रं जयन्तु न कथं तव हारताराः ॥
 
:
 

 
हे ईश, गिरिशेन दग्धं मदनं भस्मनि तद्देहभस्मनि वने

स्थाणुवने नष्टेऽपि तत्रैव वाय्वादिविक्षिप्तत्वेनादर्शनं गतेऽपि

स्त्रीणां हृदि प्रतिबोधयन्तः उद्दीपयन्तः, पक्षे दग्धं मदनं

पुनरप्युज्जीवयन्तः तव हारतारा :राः हारस्यूतानि शुद्धमुक्ता-

फलानि । 'तारस्तु शुद्धमुक्तायाम्' इति केशवः । भस्मोञ्च्चये

भस्मराशौ कृतकचप्रतिबोधनं कृतं कचस्य प्रतिबोधनं पुनः

संजविनं येन तथाभूतं शुक्रं कथं न जयन्तु नाभिभवन्तु ?

जयन्तीत्येतदुचितमेव । 'जि अभिभवे' इति धातुः सक-

र्मकः । कचो नाम बृहस्पतेः पुत्रो मृतसंजीवनीविद्यां प्राप्तुं

शुक्रं शुश्रूषमाणस्तदसहमानैरसुरैः पुनः पुनर्मारितः शुक्रेण पुनः

पुन:नः संजीवितः । पश्चादसुरास्तं मारितं भस्मीकृतं सुरायां

मिश्रीकृत्य शुक्राय ददुः । तत्पानेन स्वोदरं प्रविष्टे भस्मनि

तत्रैव शुक्रः कचमुज्जवियामास । ततः स्वोदर एव स्थिताय