This page has not been fully proofread.

८९
 
रूपे चरिते वृत्तं छन्दोविधासु च : त्रिष्वतीते दृढे वीधे वर्तु
लेsपि च दृश्यते ॥ इति यादवः ॥ ६६ ॥
 
नष्टेऽपि भस्मनि वने गिरिशेन दग्धं
स्त्रीणां हृदीश मदनं प्रतिबोधयन्तः ।
भस्मोच्चये कृतकचप्रतिबोधनं तं
 
शुक्रं जयन्तु न कथं तव हारताराः ॥
 
:
 
हे ईश, गिरिशेन दग्धं मदनं भस्मनि तद्देहभस्मनि वने
स्थाणुवने नष्टेऽपि तत्रैव वाय्वादिविक्षिप्तत्वेनादर्शनं गतेऽपि
स्त्रीणां हृदि प्रतिबोधयन्तः उद्दीपयन्तः, पक्षे दग्धं मदनं
पुनरप्युज्जीवयन्तः तव हारतारा : हारस्यूतानि शुद्धमुक्ता-
फलानि । तारस्तु शुद्धमुक्तायाम्' इति केशवः । भस्मोञ्चये
भस्मराशौ कृतकचप्रतिबोधनं कृतं कचस्य प्रतिबोधनं पुनः
संजविनं येन तथाभूतं शुक्रं कथं न जयन्तु नाभिभवन्तु ?
जयन्तीत्येतदुचितमेव । 'जि अभिभवे' इति धातुः सक-
र्मकः । कचो नाम बृहस्पतेः पुत्रो मृतसंजीवनीविद्यां प्राप्तुं
शुक्रं शुश्रूषमाणस्तदसहमानैरसुरैः पुनः पुनर्मारितः शुक्रेण पुनः
पुन: संजीवितः । पश्चादसुरास्तं मारितं भस्मीकृतं सुरायां
मिश्रीकृत्य शुक्राय ददुः । तत्पानेन स्वोदरं प्रविष्टे भस्मनि
तत्रैव शुक्रः कचमुज्जवियामास । ततः स्वोदर एव स्थिताय