This page has been fully proofread once and needs a second look.

८८
 
9
 
रागाः लक्ष्म्याः पर्यङ्कके तव वक्षसि पार्श्वभाज: पर्यङ्कपार्श्व-

द्वयनिवेशिताः क्रीडोपबर्हतिलकाः क्रीडार्थास्तिलकवद्वर्तुला-

कारा उपबर्हा उपधानानीव भान्ति । ' उपधानं तूपबई :
र्हाः
इत्यमरः । उपमारूपकोत्थापित उत्प्रेक्षालंकारः ॥ ६५ ॥

 
अस्तु त्रयीमयतनुस्तव लम्बनाली-

रत्नैस्तिरस्क्रियत एव तथापि भानुः ।

सोढः सतां बत निशान्तमुपागताना-

मेवं तिरस्कृतिकृदीश्वर कः सुवृत्तैः ।

 
भानुस्त्रयीमयतनुरस्तु नाम तथापि तव लम्बनालीरत्नैः

ललन्तिकापङ्क्रितिनिबद्धैररुणमणिभिः तिरस्क्रियतेऽभिभूयत एव ।

त्रयीविद्यस्याप्यभिभवमौचित्येनोपपादयति-- निशान्तं नि-

शाया अवसानं प्रभातम्, पक्षे गृहम् उपगतानां प्राप्तानां

सतां सत्पुरुषाणाम् , पक्षे नक्षत्राणाम् एवं तिरस्कृतिकृत्
,

भानुवदभिभवकारी कः सुवृत्तैः शोभनस्वरूपैः सुष्टुठु सम्यग्व-

तुलैर्वा, पक्षे सुचरितैः साध्वाचारै: सोढः ? ' आचारहीनं

न पुनन्ति वेदाः ' इति स्मृतेः । सकलवेदविण्प्याचारहीनः

प्राज्ञानामनादरणीय इति भावः । अवः रत्नैस्तिरस्क्रियत

इत्यतिशयोक्तिः । निशान्तसुवृत्तशब्द श्लेषोत्थापितः सामान्येन

विशेषसमर्थनरूपोऽर्थान्तरन्यासः । स च समासोक्तिगर्भ इति
 

संकरः । ' नक्षत्रं सन्नपुंसकम्' इति केशवः : ' वृत्तं स्व-