This page has not been fully proofread.

८८
 
9
 
रागाः लक्ष्म्याः पर्यङ्कके तव वक्षसि पार्श्वभाज: पर्यङ्कपार्श्व-
द्वयनिवेशिताः क्रीडोपबर्हतिलकाः क्रीडार्थास्तिलकवद्वर्तुला-
कारा उपबर्हा उपधानानीव भान्ति । ' उपधानं तूपबई :
इत्यमरः । उपमारूपकोत्थापित उत्प्रेक्षालंकारः ॥ ६५ ॥
अस्तु त्रयीमयतनुस्तव लम्बनाली-
रत्नैस्तिरस्क्रियत एव तथापि भानुः ।
सोढः सतां बत निशान्तमुपागताना-
मेवं तिरस्कृतिकृदीश्वर कः सुवृत्तैः ।
भानुस्त्रयीमयतनुरस्तु नाम तथापि तव लम्बनालीरत्नैः
ललन्तिकापङ्क्रिनिबद्धैररुणमणिभिः तिरस्क्रियतेऽभिभूयत एव ।
त्रयीविद्यस्याप्यभिभवमौचित्येनोपपादयति- निशान्तं नि-
शाया अवसानं प्रभातम्, पक्षे गृहम उपगतानां प्राप्तानां
सतां सत्पुरुषाणाम् पक्षे नक्षत्राणाम एवं तिरस्कृतिकृत्
,
भानुवदभिभवकारी कः सुवृत्तैः शोभनस्वरूपैः सुष्टु सम्यग्व-
तुलैर्वा, पक्षे सुचरितैः साध्वाचारै: सोढः ? ' आचारहीनं
न पुनन्ति वेदाः ' इति स्मृतेः । सकलवेदविण्याचारहीनः
प्राज्ञानामनादरणीय इति भावः । अव रत्नैस्तिरस्क्रियत
इत्यतिशयोक्तिः । निशान्तसुवृत्तशब्द श्लेषोत्थापितः सामान्येन
विशेषसमर्थनरूपोऽर्थान्तरन्यासः । स च समासोक्तिगर्भ इति
 
संकरः । ' नक्षत्रं सन्नपुंसकम्' इति केशवः : ' वृत्तं स्व-