2023-03-31 14:34:59 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
प्रालम्बिकाथोरः
रत्नमालो
रत्नमात्रोक्तावपि प्राकाराकृतिनिर्
ह्याणि, ऊर्ध्वरश्मिरधोरश्मिः पार्श्वरश्मि
पद्मरागः स विज्ञेय उत्तमाधममध्यमः ॥' इति रत्नशास्त्रे
पद्मरागाणामूर्ध्वप्रसृतकिरणत्वाभिधानात् । तदाख्यैः रत्नलल-
न्तिका इत्याख्यामात्रेण भिन्नै: सालै : प्राकारैः, स्फीतोल्लसत्कु-
सुमया समृद्धविकसत्पुष्पया वनमालया वैजयन्त्या पक्षे उप-
वनप
वनपङ्क्त्या च विपुलम् एतत्त्वदीयमुरःस्थलं जलघिराजकुमा-
रिकाया अन्तःपुरं विभ्राजते । 'भ्राजू दीप्तौ' । अत्रातिशयो-
ति
क्तिश्लेषोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ६४ ॥
प्रालम्बिकामुपगतास्तव पद्मरागाः
प्रत्यग्रघर्मकर
पर्यङ्कके वरद वक्षसि भान्ति लक्ष्म्याः
क्रीडोपबर्हतिलका इव पार्श्वभाजः ॥
हे वरद, तव प्रालम्बिकां लम्बमानसुवर्णकण्ठभूषाम् ।
' लम्बनं स्याल्ललन्तिका' इत्येतदनन्तरम् 'स्वर्णैः प्रालम्बि-
का' इत्यमरः । तामुपगताः प्राप्ताः प्रत्य
मण्डलात्सूर्यबिम्बान्निर्विशेषाः विशेषरहिताः तत्समानाः पश्च-
का'