This page has not been fully proofread.

८७
 
भरणानि । ' ग्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका । स्वर्णैः
प्रालम्बिकाथोरः सूत्रिका मौक्तिकैः कृता ॥' इत्यमरः । इह
रत्नमालोक्तावपि प्राकाराकृतिनिर्बाहौचित्यात्पद्मरागरत्नानि प्रा-
ह्याणि, ऊर्ध्वरश्मिरधोरश्मिः पार्श्वरश्मिञ्च यः क्रमात् ।
पद्मरागः स विज्ञेय उत्तमाधममध्यमः ॥' इति रत्नशास्त्रे
पद्मरागाणामूर्ध्वप्रसृतकिरणत्वाभिधानात् । तदाख्यैः रत्नलल-
न्तिका इत्याख्यामात्रेण भिन्नै: सालै : प्राकारैः, स्फीतोल्लसत्कु-
सुमया समृद्धविकसत्पुष्पया वनमालया वैजयन्त्या पक्षे उप-
वनपया च विपुलम् एतत्त्वदीयमुरःस्थलं जलघिराजकुमा-
रिकाया अन्तःपुरं विभ्राजते । 'भ्राजू दीप्तौ' । अत्रातिशयो-
तिलेषोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ६४ ॥
 
प्रालम्बिकामुपगतास्तव पद्मरागाः
प्रत्यग्रघर्मकर मण्डलनिर्विशेषाः ।
पर्यङ्कके वरद वक्षसि भान्ति लक्ष्म्याः
क्रीडोपबर्हतिलका इव पार्श्वभाजः ॥
 
हे वरद, तव प्रालम्बिकां लम्बमानसुवर्णकण्ठभूषाम् ।
' लम्बनं स्याल्ललन्तिका' इत्येतदनन्तरम् 'स्वर्णैः प्रालम्बि-
इत्यमरः । तामुपगताः प्राप्ताः प्रत्यप्रादभिनवाद्धर्मकर-
मण्डलात्सूर्यबिम्बान्निर्विशेषाः विशेषरहिताः तत्समानाः पश्च-
का'