This page has not been fully proofread.

८६
 
ऽपवरकालये । अनेऽभौ कुक्षिकुक्षिस्थजन्तौ पनसकण्टके ॥
इति केशवः ॥ ६२ ॥
अध्ये विरित्रिभवनात्तव नाभिपद्मा-
द्रोमावलीपदजुषस्तमसः परस्तात् ।
मुक्तौघमण्डिनमुरःस्थलमुन्मयूखं
 
पश्यामि देव परमं पदमेव साक्षात् ॥
विरिश्चेर्भवनादुत्पत्तिस्थानात्, पक्षे निकेतनात् नाभिप-
भादूर्ध्वं रोमावलीपदजुषः रोमावलीति शब्दं भजतः तमसः
परस्तात्, मुक्तानां मौक्तिकानाम्, पक्षे मुक्तिभाजामोघेन
समूहेन मण्डितम् उन्मयूखमुज्ज्वलं तव उर: स्थलं साक्षात्प-
रमं पदमेव पश्यामि उत्प्रेक्षे । अत्र भवनतमः शब्दश्लेषेण
रोमावलीति नाममात्रेण भेदो वस्तुतस्तु तम एवेत्यतिशयो-
क्त्या चोत्थापितः स्वरूपोत्प्रेक्षालंकारः ॥ ६३ ॥
 
सालेरुदंशुचपरवललन्ति काख्यैः
स्फीतोल्लसत्कुसुमया वनमालया च ।
विभ्राजते विपुलमेतदुरस्त्वदीय-
मन्तःपुरं जलधिराजकुमारिकायाः ॥६४॥
उदंशुचया ऊर्ध्वप्रसृतकिरणनिकरा या रत्नललन्तिकाः
स्यूतैः पद्मरागरत्नैः मौक्तिकैरिव कृतानि लम्बमानानि कण्ठा-