This page has been fully proofread once and needs a second look.

पतिः । यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः॥' इति
सकललोकसंनिवेशात्मकावयवसंस्थानशालि भगवन्नाभिनलिनं
सर्वविधभूतिप्रदानसमर्थमित्येवमाशास्यते । अत्र रजःशब्दश्ले-
षोत्थापितः फलोत्प्रेक्षालंकारः । तस्य नाभिह्रदरूपकेण
संसृष्टिः ॥ ६१ ॥
 
उल्लासयत्युदरबन्धनिबद्धदिव्य-
शोणाश्मरश्मिकलिकावलिरच्युतैषा ।
आगाम्यनेकशतकल्पविधातृगर्भ
नाभ्युद्गताम्बुरुहकुट्मलपङ्क्तिशोभाम् ॥
 
हे अच्युत, एषा उदरबन्धाख्ये भूषणे निबद्धानां शोणा-
श्मनां रश्मिकलिकाः कलिकाकारा ऊर्ध्वप्रसृता रश्मयः कि-
रणाः तेषामावलिः पङ्क्ति: आगामिनामनेकशतसंख्यानां कल्पा-
नां स्रष्टृत्वेन स्रष्टव्या ये विधातारः त एव गर्भा गर्भस्था
येषां तथाभूतानां नाभेरुद्गतानामम्बुरुहकुट्मलानां पङ्क्ते शो-
भामुल्लासयत्युत्पादयति । अत्र यद्यपि कुट्मलपङ्क्तिशोभामि-
त्यत्र असंभवद्वस्तुसंबन्धनिबन्धना निदर्शना प्रतिभाति,
तथापि वर्णितकुट्मलपङ्क्तिरूपस्योपमानस्य लोकसिद्धत्वाभावा-
त्कविना संभाव्यमानत्वाच्चोत्प्रेक्षायामेव पर्यवसानम् । 'गर्भो-