This page has been fully proofread once and needs a second look.

पतिः । यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ' इति
 

सकललोकसंनिवेशात्मकावयवसंस्थानशालि
 
भगवन्नाभिनलिनं
 

सर्विधभूतिप्रदानसमर्थमित्येवमाशास्यते । अत्र रजःशब्दश्ले-

षोत्थापितः फलोत्प्रेक्षालंकारः
 
। तस्य नाभिहृह्रदरूपकेण
 

 

संसृष्टिः ॥ ६१ ॥
 

 
उल्लासयत्युदरबन्धनिबद्धदिव्य-

शोणाश्मरश्मिकलिकावलिरच्युतैषा ।

आगाम्यनेक शतकल्पविधातृगर्भ

नाभ्युद्गताम्बुरुह कुमलपङ्क्तिशोभाम् ॥
 
हे अच्युत, एषा उदरबन्धाख्ये भूषणे निबद्धानां शोणा-
श्मनां रश्मिकलिकाः कलिकाकारा ऊर्ध्वप्रसृता रश्मयः कि-
रणाः तेषामावलिः पङ्क्ति: आगामिनामनेकशतसंख्यानां कल्पा-
नां स्रष्टृत्वेन स्रष्टव्या ये विधातारः त एव गर्भा गर्भस्था
येषां तथाभूतानां नाभेरुद्गतानाम
म्बुरुहकुट्मलपङ्क्तिशोभाम् ॥
 
हे अच्युत, एषा उदरबन्धाख्ये भूषणे निबद्धानां शोणा-
श्मनां रश्मिकलिकाः कलिकाकारा ऊर्ध्वप्रसृता रश्मयः कि-
रणाः तेषामावलिः पङ्क्ति: आगामिनामनेकशतसंख्यानां कल्पा-
नां स्रष्टृत्वेन स्रष्टव्या ये विधातारः त एव गर्भा गर्भस्था
येषां तथाभूतानां नाभेरुद्गतानामम्बुरुहकुट्म
लानां पङ्क्केते शो-

भामुल्लासयत्युत्पादयति । अत्र यद्यपि कुट्मलपङ्क्तिशोभामि-

त्यत्र असंभवद्वस्तुसंबन्धनिबन्धना निदर्शना प्रतिभाति,

तथापि वर्णितकुट्मलपङ्किक्तिरूपस्योपमानस्य लोकसिद्धत्वाभावा-

त्
कविना संभाव्यमानत्वाञ्च्चोत्प्रेक्षायामेव पर्यवसानम् । 'गर्भो-