This page has not been fully proofread.

पतिः । यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ॥ इति
 
सकललोकसंनिवेशात्मकावयवसंस्थानशालि
 
भगवन्नाभिनलिनं
 
सर्बविधभूतिप्रदानसमर्थमित्येवमाशास्यते । अल रजःशब्दश्ले-
षोत्थापितः फलोत्प्रेक्षालंकारः
 
। तस्य नाभिहृदरूपकेण
 

 
संसृष्टिः ॥ ६१ ॥
 
उल्लासयत्युदरबन्धनिबद्धदिव्य-
शोणाश्मरश्मिकलिकावलिरच्युतैषा ।
आगाम्यनेक शतकल्पविधातृगर्भ
नाभ्युद्गताम्बुरुह कुमलपङ्क्तिशोभाम् ॥
 
हे अच्युत, एषा उदरबन्धाख्ये भूषणे निबद्धानां शोणा-
श्मनां रश्मिकलिकाः कलिकाकारा ऊर्ध्वप्रसृता रश्मयः कि-
रणाः तेषामावलिः पङ्क्ति: आगामिनामनेकशतसंख्यानां कल्पा-
नां स्रष्टृत्वेन स्रष्टव्या ये विधातारः त एव गर्भा गर्भस्था
येषां तथाभूतानां नाभेरुद्गतानामम्बुरुहकुट्मलानां पङ्क्के शो-
भामुल्लासयत्युत्पादयति । अत्र यद्यपि कुट्मलपतिशोभामि-
त्यत्र असंभवद्वस्तुसंबन्धनिबन्धना निदर्शना प्रतिभाति,
तथापि वर्णितकुट्मलपङ्किरूपस्योपमानस्य लोकसिद्धत्वाभावा-
कविना संभाव्यमानत्वाञ्च्चोत्प्रेक्षायामेव पर्यवसानम् । 'गर्भो-