This page has been fully proofread once and needs a second look.

मिन् इयं तव नाभि:भिः साक्षात्सरसिजस्य उत्पत्तिभूरिति
नायमूह:हः, किं तु प्रत्यक्ष एवायमर्थः । अतो मुख्यसरसिजो-
त्पत्तिभुवस्तव नाभेर्मुख्यमेव सरस्त्वं युक्तमित्यर्थः । अत्र सर-
सिजयोनित्वेन मुख्यसर: रःपदवाच्यत्वं साध्यत इत्यनुमानालं-
कार: । तरः । तद्द्वारा नाभौ सरस्त्वरूपणं गम्यमिति रूपकध्वनिः ।
नायमूह इति निर्ज्ञातनिषेधानुवादेनातिस्पष्टत्वं व्यज्यते ।
साक्षादित्यनेनाप्याविष्क्रियत इति प्रतिषेधालंकारः 'प्रतिषे-
धः प्रसिद्धस्य निषेधस्यानुकीर्तनम् । विशेषणान्तरद्योत्यविशे-
षव्यक्तिकारणम् ॥ न विषेण न शस्त्रेण नाग्निना न च मृत्यु-
ना । अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः ॥' इति
तल्लक्षणोदाहरणयोस्तत्सिद्धेः ॥ ६० ॥
 
कल्पान्तरेषु विततिं कमलासनानां
भूयोऽपि कर्तुमिव भूरि रजो दधानम् ।
नाभिह्रदे समुदितं नलिनं तवैत-
द्भूयात्सदैव मम भूतिकरं मुरारे ॥ ६१ ॥
 
हे मुरारे, कल्पान्तरेषु भविष्यत्सु कमलासनानां विततिं
कर्तुमिव भूरि रजः परागम्, पक्षे कमलासनसृष्ट्युपयुक्तं
रजोगुणं दधानं तव नाभिह्रदे समुत्पन्नमेतन्नलिनं सदैव मम
भूतिकरं भूयात् । 'नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजाजां