This page has not been fully proofread.

८४
 
मिन् इयं तव नाभि: साक्षात्सरसिजस्य उत्पत्तिभूरिति

नायमूह:, किं तु प्रत्यक्ष एवायमर्थः । अतो मुख्यसरसिजो-

त्पत्तिभुवस्तव नाभेर्मुख्यमेव सरस्त्वं युक्तमित्यर्थः । अत्र सर-

सिजयोनित्वेन मुख्यसर: पदवाच्यत्वं साध्यत इत्यनुमानालं-

कार: । तद्वारा नाभौ सरस्त्वरूपणं गम्यमिति रूपकध्वनिः ।

नायमूह इति निर्ज्ञातनिषेधानुवादेनातिस्पष्टत्वं व्यज्यते ।

साक्षादित्यनेनाप्याविष्क्रियत इति प्रतिषेधालंकारः 'प्रतिषे

धः प्रसिद्धस्य निषेधस्यानुकीर्तनम् । विशेषणान्तरद्योत्यविशे-

षव्यक्तिकारणम् ॥ न विषेण न शस्त्रेण नाग्निना न च मृत्यु-

ना । अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः ॥' इति

तल्लक्षणोदाहरणयोस्तत्सिद्धेः ॥ ६० ॥
 

 
कल्पान्तरेषु विततिं कमलासनानां

भूयोऽपि कर्तुमिव भूरि रजो दधानम् ।

नाभिहदे समुदितं नलिनं तवैत-

द्भूयात्सदैव मम भूतिकरं मुरारे ॥ ६१ ॥
 

 
हे मुरारे, कल्पान्तरेषु भविष्यत्सु कमलासनानां विततिं

कर्तुमिव भूरि रजः परागम्, पक्षे कमलासनसृष्ट्युपयुक्तं

रजोगुणं दधानं तव नाभिहदे समुत्पन्नमेतन्नलिनं सदैव मम

भूतिकरं भूयात् । नाभिहदाम्बुजादासीद्ब्रह्मा विश्वसृजां
 
जा