This page has not been fully proofread.

८३
 
शात्प्रायो वेदानुसारेण स्वकृतेष्वपि प्रन्थेषु शब्दान्प्रयुञ्जते ।
अतो जैमिनिना 'नाभ्या आसीदन्तरिक्षम' इति श्रुतौ प्रथमा
पञ्चम्योर्व्यत्ययं दृष्टा तद्वदिदं सूत्रं कृतमिति । अस मध्यभागे
गगनत्वाध्यवसायरूपयातिशयोक्त्योत्थापितोऽनुमानालंकारः ।
उत्तरत्राक्यं तदुपपादकं तस्याप्युपपादकं तदुत्तरवाक्यमिति
काव्यलिङ्गम । एतेषां च संकरः । नाभ्या इति श्रुतीत्यत्र
श्रुच्छब्दात्संपदादिक्किबन्तात्सप्तमी ॥ ५९ ॥
 
आरोपमध्यवमितिं च विना तवास्यां
नाभौ सरःपदमुपैतु कथं न वृत्तिम् ।
साक्षादियं सरमिजस्य समुद्रशायि.
नुत्पत्तिभूरिति हि नायक नायमूह ॥
प्रसिद्धादुपमानादुपमेयस्य भेदमनूध ताद्रूप्यमात कल्पन-
मारोपः । यथा 'अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः' इति ।
तस्य प्रसिद्धोपमानाभेदकल्पनमध्यवसायः । यथा 'अवतीर्य
हरिः साक्षादेष रक्षति मेदिनीम्' इति । अन्येषां नाभौ तदु-
पमानवाचकपदमारोपेणाध्यवसायेन वा प्रवर्तते न तु वाचक-
तयेति वस्तुस्थितिः । सा भगवन्नाभावन्यथा क्रियते । आरो-
पमध्यवसितिं च विनैव तवास्यां नाभौ सरः पदं वृत्तिं प्रवृत्तिं
कथं नोपैतु ? प्राप्तुमर्हत्येव । हे समुद्रशायिन्, नायक स्वा-