This page has not been fully proofread.

८२
 
आसीदन्तरिक्षम्' इति श्रुतौ प्रथमपञ्चम्यौ विभक्ती विपर्य-
यगे पञ्चम्यर्थे प्रथमा प्रथमार्थे पञ्चमीत्येवं विपरीतार्थपरे
एव । तथा च अन्तरिक्षान्नाभिरासीदिति श्रुतेरर्थः । एवं च
श्रुतौ श्रुतयोः प्रथमापञ्चम्योर्विपर्ययः । एवं विपर्ययकल्पनं
नायुक्तम, यतस्तां श्रुतिं जैमिने: पूर्वतन्त्रकृतः 'पशोश्च विप्र-
कर्ष:-' इत्यादिकं सूत्रम् अनुससार अनुसरति स्म । तथा
च सदनुसारेण जैमिनीयमपि सूत्रं प्रवृत्तम् –'पशोच विप्र-
कर्षस्तन्मध्ये विधानात्' इति । ज्योतिष्टोमे सौत्येऽहनि सव-
नीय पशुस्तन्त्री सवनीयपुरोडाशः प्रसङ्गी, न तु वैपरीत्यम्,
पशु प्रयोगस्य व्यापित्वात्पुरोडाशप्रयोगाणां छिद्रापिधानवत्तन्म-
ध्यपातित्वादिति प्रतिपादयितुमिदं सूत्रं कृतम् । इदं यथा श्रुतं
न विवक्षितार्थसमर्पणक्षमम् । विप्रकर्षो ह्यत्र प्रथमान्तनिर्दिष्टः
साध्यत्वेनावगम्यते । तन्मध्ये विधानं तु पञ्चम्यन्तं निर्दिष्टं
हेतु, तया । एवमन्वयो न संगच्छते यतो विप्रकर्षः प्रातरादिका-
बत्राय संबन्धरूपः 'वपया प्रातःसवने चरन्ति पुरोडाशेन
माध्यंदिने सवने अप्रैस्तृतीयसवने' इति प्रत्यक्षवचन प्रसिद्धो
न साघनीयः । पुरोडाशानां पशुतन्त्रमध्ये विधानं तु साध-
नीन्थम । अतः प्रथमापञ्चम्योर्व्यत्यासेनार्थो ग्राह्यः पशोर्विप्र-
कर्षात्आतरादिकालत्रयव्यापित्वात्पुरोडाशानां पशुतन्त्रमध्ये
विश्वानमिति । वेदाभ्यासनिरता हि महर्षयस्तदभ्यासवासनाव-