This page has not been fully proofread.

८१
 
संप्राप्य सारसनमध्यतलोदयाद्रिं

मध्याम्बरं मसृणयन्नरुणैर्मयूग्वैःखै

संवीक्ष्यते सुकृतिभिर्मणिरेष पूषा

संसारराज्युपरतिं गतवद्भिरेव ॥ ५८ ॥
 

 
सारसनस्य मेखलाख्यस्य कटिदेशाभरणस्य मध्यतलमेवो-

दयाद्रिः तं संप्राप्य मध्याम्बरं मध्यमेवाकाशम् अरुणैर्मयूखैः

मसृणयन्स्निग्धं मनोहरं कुर्वन् एष मणि: पद्मरागमणिरेव

पूषा संसाररात्रे : उपरतिं गतवद्भिः प्राप्तवद्भिरेव सुकृतिभिः

संबीक्ष्यते नान्यैः । अत्र मणिः पूषेति व्यस्तरूपकानुरोधात्

सारसनमध्यतलोदयाद्रिमित्यादिष्वपि रूपकसमास इति सा-

वयवरूपकालंकारः ।' मेखलायां सारसनं रस्यमानेऽपि के-

चन' इति केशवः ॥ ५८ ॥
 
·
 

 
नाभेरभूत्तव चतुर्भुज नान्तरिक्षं

यन्नाभिरेव यदुनेतरियं ततोऽभूशृत् ।

नाभ्या इति श्रुति विपर्ययगे विभक्ती

तां जैमिनेरनुसार पशोश्च सूत्रम् ॥

 
हे चतुर्भुज यदुनेत: यदुनायक, तव नाभेरन्तरिक्षं ना-

भूत् यदियं नाभिरेव ततोऽन्तरिक्षादभूत् । मध्यमत्रान्तरिक्ष-

त्वेनाध्यवसितम् । एवं च सति नाभ्या इति श्रुति 'नाभ्यां
 
V. 6