This page has not been fully proofread.

८१
 
संप्राप्य सारसनमध्यतलोदयाद्रिं
मध्याम्बरं मसृणयन्नरुणैर्मयूग्वैः ।
संवीक्ष्यते सुकृतिभिर्मणिरेष पूषा
संसारराज्युपरतिं गतवद्भिरेव ॥ ५८ ॥
 
सारसनस्य मेखलाख्यस्य कटिदेशाभरणस्य मध्यतलमेवो-
दयाद्रिः तं संप्राप्य मध्याम्बरं मध्यमेवाकाशम् अरुणैर्मयूखैः
मसृणयन्स्निग्धं मनोहरं कुर्वन् एष मणि: पद्मरागमणिरेव
पूषा संसाररात्रे : उपरतिं गतवद्भिः प्राप्तवद्भिरेव सुकृतिभिः
संबीक्ष्यते नान्यैः । अत्र मणिः पूषेति व्यस्तरूपकानुरोधात्
सारसनमध्यतलोदयाद्रिमित्यादिष्वपि रूपकसमास इति सा-
वयवरूपकालंकारः । मेखलायां सारसनं रस्यमानेऽपि के-
चन' इति केशवः ॥ ५८ ॥
 
·
 
नाभेरभूत्तव चतुर्भुज नान्तरिक्षं
यन्नाभिरेव यदुनेतरियं ततोऽभूत् ।
नाभ्या इति श्रुति विपर्ययगे विभक्ती
तां जैमिनेरनुसार पशोश्च सूत्रम् ॥
हे चतुर्भुज यदुनेत: यदुनायक, तव नाभेरन्तरिक्षं ना-
भूत् यदियं नाभिरेव ततोऽन्तरिक्षादभूत् । मध्यमत्रान्तरिक्ष-
त्वेनाध्यवसितम् । एवं च सति नाभ्या इति श्रुति 'नाभ्यां
 
V. 6