This page has not been fully proofread.

८०
 
र्षार्धे वामस्य दक्षिणमित्यादिना पर्युदासाद्वामदक्षिणयोः परस्प-

रमौपम्यं गम्यत इत्येवं व्यज्यमानोपमेयोपमा सदृशान्तरप-

रिवर्जनरूपायां परिसंख्यायामुपकरोतीति गुणीभूतव्यङ्गध-

भेद: । एतेषामलंकाराणां संकरः ॥ ५६ ॥
 

 
नाथ त्वया परिहितं वरवर्णिनीनां

रागस्य यद्वसनमास्पदतां बिभर्ति ।

सौन्दर्य सारनिलयेन कटीतटेन
 

तस्यैष किं नु महिमा परिशीलनस्य ॥
 

 
हे नाथ, त्वया परिहितं वसनं पीताम्बरं वरवर्णिनीनां

रागस्य आस्पदतां हरिद्राणां वर्णस्याधारताम्, पक्षे सुन्दरी -

णाममुरागस्य विषयतां बिभर्तीति यत् एषः तस्य वसनस्य

सौन्दर्यसारनिलयेन कटीतटेन यत्परिशीलनं तस्य महिमा

किं नु संसर्गगुणोऽयं किम् ? अत्र वरवर्णिनीरागास्पदत्वे

हेतूत्प्रेक्षा । सा च वरवर्णिन्यादिशब्दश्लेषापेक्षा, वरवर्णिनी-

वर्णास्पदत्वमसंभवत्तत्समानवर्णास्पदत्वं गमयतीत्यसंभवद्वस्तु-

संबन्धनिबन्धननिदर्शनापेक्षा, सौन्दर्यसारनिलयेनेति पदा-

र्थहेतुककाव्यलिङ्गापेक्षा, चेत्येतेषां संकरः । 'निशाह्रा काश्च-

नी पीता हरिद्रा वरवर्णिनी' इत्यमरः ॥ ५७ ॥