This page has not been fully proofread.

८०
 
बर्धे वामस्य दक्षिणमित्यादिना पर्युदासाद्वामदक्षिणयोः परस्प-
रमौपम्यं गम्यत इत्येवं व्यज्यमानोपमेयोपमा सदृशान्तरप-
रिवर्जनरूपायां परिसंख्यायामुपकरोतीति गुणीभूतव्यङ्गध-
भेद: । एतेषामलंकाराणां संकरः ॥ ५६ ॥
 
नाथ त्वया परिहितं वरवर्णिनीनां
रागस्य यद्वसनमास्पदतां बिभर्ति ।
सौन्दर्य सारनिलयेन कटीतटेन
 
तस्यैष किं नु महिमा परिशीलनस्य ॥
 
हे नाथ, त्वया परिहितं वसनं पीताम्बरं वरवर्णिनीनां
रागस्य आस्पदतां हरिद्राणां वर्णस्याधारताम्, पक्षे सुन्दरी -
णाममुरागस्य विषयतां बिभर्तीति यत् एषः तस्य वसनस्य
सौन्दर्यसारनिलयेन कटीतटेन यत्परिशीलनं तस्य महिमा
किं नु संसर्गगुणोऽयं किम् ? अत्र वरवर्णिनीरागास्पदत्वे
हेतूत्प्रेक्षा । सा च वरवर्ण यादिशब्दश्लेषापेक्षा, वरवर्णिनी-
वर्णास्पदत्वमसंभवत्तत्समानवर्णास्पदत्वं गमयतीत्यसंभवद्वस्तु-
संबन्धनिबन्धननिदर्शनापेक्षा, सौन्दर्यसारनिलयेनेति पदा-
र्थहेतुककाव्यलिङ्गापेक्षा, चेत्येतेषां संकरः । 'निशाह्रा काच-
नी पीता हरिद्रा वरवर्णिनी' इत्यमरः ॥ ५७ ॥