This page has been fully proofread once and needs a second look.

त्रं पश्यन्स्वं रूपं पापमलिनतया तद्विपरीतं यथा मन्यते तद्व-
दित्यपि प्रतीयते । तेनोपमालंकारध्वनिः । जानुद्वयस्य मणि-
दर्पणत्वेनो त्प्रेक्षणादुत्प्रेक्षा मन्ये इति तद्वाचकप्रयोगाच्च । उत्प्रे-
क्षायां निमित्तमुत्तरार्धेनोक्तम् ॥ ५५ ॥
 
करो:ऊरोः किमन्यदयतामुपमानभावं
वामस्य दक्षिणममुष्य च तं विहाय |
रम्भादयः सदृश इन्त्युचित किमेत
ध्
-
द्
यस्योर्वशी सुभग मापि विभूतिलेशः ॥
 
हे सुभग सुन्दर, तव ऊरो: वामस्य दक्षिणम् अमुष्य
दक्षिणस्य तं वामं च विहाय किमन्यदुपमानभावमयतां प्रा-
प्नोतु ? अन्यत्किमप्युपमानत्वं नार्हतीत्यर्थः । शङ्कितोपमाना-
न्तरनिरासेन तदुपपादकमुत्तरार्धम् । रम्भादयः रम्भा गज-
कर इत्याद्याः सदृश:शः भगवदूरोः सदृक्षा इत्येतदुचितं किम् ?
नैवोचितम । कुतः ? यस्य भगवदूरोः सासदृक्षा स्वर्वेश्यास्वतिसु-
न्दरीति प्रसिद्धा उर्वश्यपि विभूतिलेश: भगवदूरो:रोः प्रसूता
हि सा पुराणेषु प्रसिद्धा । अत्रोर्वशीप्रतिकोटितया रम्भाद
इत्यनेन रम्भातिलोत्तमादयोऽपि प्रतीयन्ते । तत्प्रतीतिमपेक्ष्य
कैमुतिकन्यायोपन्यास इति श्लेषसंकीर्णोऽर्थापस्त्त्यलंकारः ।
उतरवाक्यार्थः पूर्वदाक्यार्थोपपादक इति काव्यलिङ्गम् । पू-