This page has not been fully proofread.

त्रं पश्यन्स्वं रूपं पापमलिनतया तद्विपरीतं यथा मन्यते तद्व-
दित्यपि प्रतीयते । तेनोपमालंकारध्वनिः । जानुद्वयस्य मणि-
दर्पणत्वेक्षणात्प्रेक्षा मन्ये इति तद्वाचक प्रयोगाच्च । उत्प्रे-
क्षायां निमित्तमुत्तरार्धेनोक्तम् ॥ ५५ ॥
 
करो: किमन्यदयतामुपमानभावं
वामस्य दक्षिणममुष्य च तं विहाय
रम्भादयः सदृठा इन्युचित किमेत
ययोर्वशी सुभग मापि विभूतिलेशः ॥
 
हे सुभग सुन्दर, तव ऊरो: वामस्य दक्षिणम् अमुष्य
दक्षिणस्य तं वामं च विहाय किमन्यदुपमानभावमयतां प्रा-
नोतु ? अन्यत्किमप्युपमानत्वं नार्हतीत्यर्थः । शङ्कितोपमाना-
न्तरनिरासेन तदुपपादकमुत्तरार्धम । रम्भादयः रम्भा गज-
कर इत्याद्याः सदृश: भगवदूरोः सदृक्षा इत्येतदुचितं किम् ?
नैवाचितम । कुतः ? यस्य भगवदूरोः सा स्वर्वेश्यास्वतिसु-
न्दरीति प्रसिद्धा उर्वश्यपि विभूतिलेश: भगवदूरो: प्रसूता
हि सा पुराणेषु प्रसिद्धा । अत्रोर्वशीप्रतिकोटितया रम्भादब
इत्यनेन रम्भातिलोत्तमादयोऽपि प्रतीयन्ते । तत्प्रतीतिमपेक्ष्य
कैमुतिकन्यायोपन्यास इति श्लेषसंकीर्णोऽर्थापस्यलंकारः ।.
उतरवाक्यार्थः पूर्वदाक्यार्थोपपादक इति काव्यलिङ्गम । पू